|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.118. अध्यायः 118
Mahabharata - Udyoga Parva - Chapter Topics
गालवेन पुनः कन्यात्वमुपगतया माधव्या सह उशीनरनृपं गत्वा स्वागमनकारणकथनम् ॥ 1 ॥ तेनाप्यश्वशतद्वयदानेन माधव्यां शिबिनामकतनयोत्पादनम् ॥ 2 ॥ कालान्तरे उशीनरान्माधवीमादाय गच्छतो गालवस्य मध्येमार्गं गरुडेन समागमः ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-118-0(35799)
नारद उवाच। 5-118-0x(3736)
तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी ।
माधवी गालवं विप्रमभ्ययात्सत्यसङ्गरा ॥ 5-118-1(35800)
गालवो विमृशन्नेव स्वकार्यगतमानसः ।
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ॥ 5-118-2(35801)
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्।
इय कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ॥ 5-118-3(35802)
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च।
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ॥ 5-118-4(35803)
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्।
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ॥ 5-118-5(35804)
गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे।
यदि शक्यं महाराज क्रियतामविचारितम् ॥ 5-118-6(35805)
अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव ।
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ॥ 5-118-7(35806)
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः।
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ॥ 5-118-8(35807)
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् ।
उशीनरः प्रतिवचो ददौ तस्य नराधिपः ॥ 5-118-9(35808)
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव ।
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ॥ 5-118-10(35809)
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम।
इतरेषां सहस्राणि सुबहूनि चरन्ति मे ॥ 5-118-11(35810)
अहमप्येकमेवास्यां जनयिष्यामि गालव ।
पुत्रवद्भिर्गतं मार्गं गमिष्यामि परैरहम् ॥ 5-118-12(35811)
मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम।
पौरजानपदार्थं तु ममार्थो नात्मभोगतः ॥ 5-118-13(35812)
कामतो हि धनं राजा पारक्यं यः प्रयच्छति।
न स धर्मेण धर्मात्मन्युज्यते यशसा न च ॥ 5-118-14(35813)
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम ।
कुमारीं देवगर्भाभामेकपुत्रभवाय मे॥ 5-118-15(35814)
तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम् ।
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ॥ 5-118-16(35815)
उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् ।
रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ॥ 5-118-17(35816)
कन्दरेषु च शैलानां नदीनां निर्झरेषु च।
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥ 5-118-18(35817)
हर्म्येषु रमणीयेषु प्रासादशिखरेषु च।
वातायनविमानेषु तथा गर्भगृहेषु च॥ 5-118-19(35818)
ततोऽस्य समये यज्ञे पुत्रो बालरविप्रभः ।
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ॥ 5-118-20(35819)
उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च।
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ॥ ॥ 5-118-21(35820)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टादशाधिकशततमोऽध्यायाः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|